मनोजवं मारुततुल्यवेगं, जितेन्द्रियं बुद्धिमतां वरिष्ठम्। वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं शरणं प्रपद्ये॥ ॐ हं हनुमते नमः॥ (१०८ बार) अतुलितबलधामं हेमशैलाभदेहं, दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्। सकलगुणनिधानं वानराणामधीशं, रघुपतिप्रियभक्तं वातजातं नमामि॥ बुद्धिर्बलं यशो धैर्यं, निर्भयत्वमरोगता। अजाड्यं वाक्पटुत्वं च, हनुमत्स्मरणाद्भवेत्॥
॥ इति ॥
दीप जलाने के लिए स्पर्श करें


